(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.175. अध्यायः 175
Mahabharata - Vana Parva - Chapter Topics
निवातकवचवधानन्तरं स्वर्गंप्रत्यागच्छताऽर्जुनेन मध्येमार्गं हिरण्यपुरावलोकनम् ॥ 1 ॥ ततस्तद्वासिनां पौलोमानां कालकेयानां च वधानन्तरं पुनः स्वर्गं प्रत्यागमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

अर्जुन उवाच। 3-175-0x(2320)(22645)
निवर्तमानेन मया महद्दृष्टं ततोऽपरम्।
पुरं कामगमं दिव्यं पावकार्कसमप्रभम् ॥ 3-175-1(22646)
रत्नद्रुममयैश्चित्रैर्भास्वरैश्च पतत्रिभिः।
पौलोमैः कालकेयैश्च रनित्यहृष्टैरधिष्ठिरतम् ॥ 3-175-2(22647)
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम्।
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ॥ 3-175-3(22648)
द्रुमैः पुष्पलोपेतैः सर्वरत्नमयैर्वृतम्।
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः ॥ 3-175-4(22649)
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः।
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥ 3-175-5(22650)
तदहं प्रेक्ष्यदैत्यानां पुरमद्भुतदर्शनम्।
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥ 3-175-6(22651)
मातलिरुवाच। 3-175-7x(2321)
पुलोमा नाम दैतेयी कालका च महासुरी।
दिव्यंवर्षसहस्रं ते चेरतुः परमं तपः ॥ 3-175-7(22652)
तपसोन्ते ततस्ताभ्यां स्वयंभूरददाद्वरम्।
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् ॥ 3-175-8(22653)
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः।
पुरं सुरमणीयं च स्वचरं सुकृतप्रभम् ॥ 3-175-9(22654)
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि।
महर्षियक्षगन्धर्वपन्नगासुरराक्षसैः ॥ 3-175-10(22655)
सर्वकामगुणोपेतं वीतशोकमनामयम्।
ब्र्हमणो भवनाच्छ्रेष्ठं कालकेयकृतं विभो ॥ 3-175-11(22656)
तदेतत्खपुरं दिव्यं चरत्यमरवर्जितम्।
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥ 3-175-12(22657)
हिरण्यपुरमित्येवं ख्यायते नगरं महत्।
रक्षितंकालकेयैश्च पौलोमैश्च महासुरैः ॥ 3-175-13(22658)
त एतेमुदिता राजन्नवध्याः सर्वदैवतैः।
निवसन्त्यत्रराजेन्द्र गतोद्वेगा निरुत्सुकाः ॥ 3-175-14(22659)
`सुरासुरैरवध्यानां दानवानां धनञ्जय'।
मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥ 3-175-15(22660)
[एतानपि रणे पार्त कालकेयान्दुरासदान्।
वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान्] ॥ 3-175-16(22661)
अर्जुन उवाच। 3-175-17x(2322)
सुरासुरैरवध्यं तदहं ज्ञात्वा विशांपते।
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥ 3-175-17(22662)
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम्।
न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः ॥ 3-175-18(22663)
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात्।
रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥ 3-175-19(22664)
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः।
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥ 3-175-20(22665)
ततो नालीकनाराचैर्भल्लैः शक्त्यृष्टितोमरैः।
प्रत्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥ 3-175-21(22666)
तदहं शस्त्रवर्षेण महता प्रत्यवारयम्।
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥ 3-175-22(22667)
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे।
तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ॥ 3-175-23(22668)
तेषामेवं विमूढानामन्योन्यमभिधावताम्।
शिरांसि विशिखैर्दीप्तैरच्छिन्दं शतसङ्घशः ॥ 3-175-24(22669)
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः।
खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥ 3-175-25(22670)
ततोऽहं शरवर्षेण महता कुरुनन्दन।
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥ 3-175-26(22671)
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम्।
दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥ 3-175-27(22672)
अन्तर्भूमौ निपतति पुनरूर्ध्वं प्रतिष्ठते।
पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति ॥ 3-175-28(22673)
अमरावतिसंकाशं तत्पुरं कामगं महत्।
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णां परंतप ॥ 3-175-29(22674)
ततोऽहं शरजालेन दिव्यास्त्रनुदितेन च।
व्यगृह्णां सह दैतेयैस्तत्पुरं पुरुषर्षभ ॥ 3-175-30(22675)
विक्षत चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः।
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥ 3-175-31(22676)
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः।
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥ 3-175-32(22677)
ततो मातलिरारुह्यपुरस्तान्निपतन्निव।
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥ 3-175-33(22678)
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम्।
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत।
तान्यहं निशितैर्बाणैर्व्यधमं गार्ध्रराजितैः ॥ 3-175-34(22679)
ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः।
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत् ॥ 3-175-35(22680)
ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम् ॥ 3-175-36(22681)
ततस्तानि सहस्राणइ रथिनां चित्रयोधिनाम्।
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्छनकैरिव ॥ 3-175-37(22682)
रथमार्गान्विचित्रांस्ते विचरन्तो महाबलाः।
प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः ॥ 3-175-38(22683)
विचित्रमुकुटापीडा विचित्रकवचध्वजाः।
विचित्राभरणाश्चैव मम प्रीतिकराऽभवन् ॥ 3-175-39(22684)
अहं तुशरवर्षैस्तानस्त्रप्रचुदितै रणे।
नाशक्रुवं पीडयितुं ते तु मां प्रत्यपीडयन् ॥ 3-175-40(22685)
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि।
व्यथितोस्मि महायुद्धे भयं चागान्महन्मम ॥ 3-175-41(22686)
`ततोहं परमायत्तो मातलिं परिपृष्टवान् ॥ 3-175-42(22687)
किमेते मम बाणौघैर्दिव्यास्त्रप्रतिमन्त्रितैः।
न वध्यन्ते महाघोरैस्तत्त्वमाख्याहि पृच्छतः ॥ 3-175-43(22688)
स मामुवाच पर्याप्तस्त्वमेषां भरतर्षभ।
तानुद्दिश्याथ मर्माणि प्रतिघातं तदाचर ॥ 3-175-44(22689)
एतच्छ्रुत्वा तु राजेनद्रसंप्रहृष्टस्तमूचिवान्।
निवर्तय रथं शीघ्रं पश्य चैतान्निपातितान् ॥ 3-175-45(22690)
एवमुक्तो रथं तत्र मातलिः पर्यवर्तयत् ॥ 3-175-46(22691)
ततो मत्वा रणे भग्नं दानवाः प्रतिहर्षिताः।
विचुक्रुशुर्महाराज स्वरेण महता मुहुः ॥ 3-175-47(22692)
अभग्नः कैश्चिदप्येष पाण्डवो रणमूर्धनि।
अस्माभिः समरे भग्न इत्येवं संघशस्तदा ॥ 3-175-48(22693)
ततोहं देवदेवाय रुद्रायाव्यक्तमूर्तये।
प्रयतः प्रणतो भूत्वा नमस्कृत्य महात्मने'।
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥ 3-175-49(22694)
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम्।
`महत्पाशुपतं दिव्यं सर्वलोकनमस्कृतम्' ॥ 3-175-50(22695)
`ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम्।
त्रिमुखं षङ्भुजं दीप्तमर्कज्वलनमूर्धजम्।
लेलिहानैर्महानागैः कृतचिह्नममित्रहन् ॥ 3-175-51(22696)
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम्।
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ॥ 3-175-52(22697)
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे।
मुक्तवान्दानवेन्द्राणां पराभावाय भारत ॥ 3-175-53(22698)
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः।
मृगाणामथ सिंहानां व्याग्राणां च विशांपते ॥ 3-175-54(22699)
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम्।
शरभाणां गजानां च वानराणां च सङ्घशः।
ऋषभाणां वराहाणां मार्जाराणां तथैव च ॥ 3-175-55(22700)
सालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः।
गृध्राणां गरुडानां च चमराणां तथैव च ॥ 3-175-56(22701)
देवानां च ऋषीणां रच गन्धर्वाणां च सर्वशः।
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥ 3-175-57(22702)
गुह्यकानां च संग्रामे नैर्ऋतानां तथैव च।
झषाणां गजवक्राणामुलूकानां तथैव च ॥ 3-175-58(22703)
मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम्।
तथैव यातुधानानां गदामुद्गरधारिणाम् ॥ 3-175-59(22704)
एतैस्चान्यैश्च बहुभिर्नानारूपधरैस्तदा।
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥ 3-175-60(22705)
त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः।
अनेकरूपसंयुक्तैर्मांसमेदोवसास्तिभिः ॥ 3-175-61(22706)
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः।
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः ॥ 3-175-62(22707)
अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः।
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ॥ 3-175-63(22708)
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान्।
दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ॥ 3-175-64(22709)
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान्।
निशाम्य परमं हर्षमगमद्देवसारथिः ॥ 3-175-65(22710)
तदसह्यं कृतं कर्म देवैरपि दुरासदम्।
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥ 3-175-66(22711)
उचाच वचनं चेदंप्रीयमाणः कृताञ्जलिः।
`हतांस्तान्दानवान्दृष्ट्वा मया सङ्ख्ये सहस्रशः ॥ 3-175-67(22712)
सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया।
न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः।
`ध्रुवं धनञ्जय प्रीतस्त्वयि शक्रः पुरार्दन' ॥ 3-175-68(22713)
सुरासुरैरवध्यं हि पुरमेतत्खगं महत्।
त्वया विमथितं वीर स्ववीर्यतपसो बलात् ॥ 3-175-69(22714)
अर्जुन उवाच। 3-175-69x(2323)
विद्वस्ते खपुरे तस्मिन्दानवेषु हतेषु च।
विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ॥ 3-175-70(22715)
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः।
पेतुः पुत्रान्पितृन्भ्रातॄञ्शोचमाना महीतले ॥ 3-175-71(22716)
रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः।
उरांसि पाणिभिर्घ्नन्त्यो विस्रस्तस्रग्विभूषणाः ॥ 3-175-72(22717)
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम्।
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ॥ 3-175-73(22718)
गन्धर्वनगराकारं हृतनागमिव ह्रदम्।
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ॥ 3-175-74(22719)
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत्।
देवराजस्य भवनं कृतकर्माणमाहवात् ॥ 3-175-75(22720)
हिरण्यपुरमुत्सृज्य निहत्य च महासुरान्।
निवातकवचांश्चैव ततोऽहंशक्रमागमम् ॥ 3-175-76(22721)
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत्।
सर्वं विश्रावयामास यथाभूतं महाद्युते ॥ 3-175-77(22722)
हिरण्यपुरघातं च मायानां च निवारणम्।
निवातकवचानां च वधं सङ्ख्ये महौजसाम्।
`कालकेयवधं चैव अद्भुतं रोमहर्षणम्' ॥ 3-175-78(22723)
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः।
मरुद्भिः सहितः श्रीमान्साधुसाध्वित्यथाब्रवीत्।
`परिष्वज्य च मां प्रेम्णा मूर्ध्नि चाघ्राय सस्मितम्' ॥ 3-175-79(22724)
ततो मां देवराजो वै समाश्वास्य पुनः पुनः।
अब्रवीद्विबुधैः सार्धमिदं समधुरं वचः ॥ 3-175-80(22725)
अतिदेवासुरं कर्म कृतमेव त्वया रणे।
गुर्वर्थश्च कृतः पार्थ महाशत्रून्घ्नता मम ॥ 3-175-81(22726)
एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय।
असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥ 3-175-82(22727)
अविषह्यो रणे हि त्वं देवदानवराक्षसैः।
सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥ 3-175-83(22728)
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम्।
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥ 3-175-84(22729)

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-175-12 खपुरं खचरत्वात् ॥ 3-175-18 न वध्या इति न अपितु वध्या एव ॥ 3-175-33 आरुह्य गगनमुत्पत्य। अवातरत् अवतीर्णः ॥ 3-175-34 पर्यवर्तन्त परिवार्य अवर्तन्त। गार्द्रराजितैः गृध्रपत्रशोभितैः ॥ 3-175-35 युद्धे निमित्ते सति संन्यवर्तन्त। इमे वयमिति शेषः। रयुद्धेन जेतुमिति शेषः ॥ 3-175-61 मांसमेदोवसास्थिभिः संयुक्तैरिति शेषः ॥ 3-175-63 निबर्हणैर्नाशकरैः ॥ 3-175-65 निशाम्य दृष्ट्वा ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.