|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.175. अध्यायः 175
Mahabharata - Vana Parva - Chapter Topics
निवातकवचवधानन्तरं स्वर्गंप्रत्यागच्छताऽर्जुनेन मध्येमार्गं हिरण्यपुरावलोकनम् ॥ 1 ॥ ततस्तद्वासिनां पौलोमानां कालकेयानां च वधानन्तरं पुनः स्वर्गं प्रत्यागमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
अर्जुन उवाच। 3-175-0x(2320)(22645)
निवर्तमानेन मया महद्दृष्टं ततोऽपरम्।
पुरं कामगमं दिव्यं पावकार्कसमप्रभम् ॥ 3-175-1(22646)
रत्नद्रुममयैश्चित्रैर्भास्वरैश्च पतत्रिभिः।
पौलोमैः कालकेयैश्च रनित्यहृष्टैरधिष्ठिरतम् ॥ 3-175-2(22647)
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम्।
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ॥ 3-175-3(22648)
द्रुमैः पुष्पलोपेतैः सर्वरत्नमयैर्वृतम्।
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः ॥ 3-175-4(22649)
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः।
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥ 3-175-5(22650)
तदहं प्रेक्ष्यदैत्यानां पुरमद्भुतदर्शनम्।
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥ 3-175-6(22651)
मातलिरुवाच। 3-175-7x(2321)
पुलोमा नाम दैतेयी कालका च महासुरी।
दिव्यंवर्षसहस्रं ते चेरतुः परमं तपः ॥ 3-175-7(22652)
तपसोन्ते ततस्ताभ्यां स्वयंभूरददाद्वरम्।
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् ॥ 3-175-8(22653)
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः।
पुरं सुरमणीयं च स्वचरं सुकृतप्रभम् ॥ 3-175-9(22654)
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि।
महर्षियक्षगन्धर्वपन्नगासुरराक्षसैः ॥ 3-175-10(22655)
सर्वकामगुणोपेतं वीतशोकमनामयम्।
ब्र्हमणो भवनाच्छ्रेष्ठं कालकेयकृतं विभो ॥ 3-175-11(22656)
तदेतत्खपुरं दिव्यं चरत्यमरवर्जितम्।
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥ 3-175-12(22657)
हिरण्यपुरमित्येवं ख्यायते नगरं महत्।
रक्षितंकालकेयैश्च पौलोमैश्च महासुरैः ॥ 3-175-13(22658)
त एतेमुदिता राजन्नवध्याः सर्वदैवतैः।
निवसन्त्यत्रराजेन्द्र गतोद्वेगा निरुत्सुकाः ॥ 3-175-14(22659)
`सुरासुरैरवध्यानां दानवानां धनञ्जय'।
मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥ 3-175-15(22660)
[एतानपि रणे पार्त कालकेयान्दुरासदान्।
वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान्] ॥ 3-175-16(22661)
अर्जुन उवाच। 3-175-17x(2322)
सुरासुरैरवध्यं तदहं ज्ञात्वा विशांपते।
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥ 3-175-17(22662)
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम्।
न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः ॥ 3-175-18(22663)
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात्।
रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥ 3-175-19(22664)
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः।
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥ 3-175-20(22665)
ततो नालीकनाराचैर्भल्लैः शक्त्यृष्टितोमरैः।
प्रत्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥ 3-175-21(22666)
तदहं शस्त्रवर्षेण महता प्रत्यवारयम्।
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥ 3-175-22(22667)
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे।
तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ॥ 3-175-23(22668)
तेषामेवं विमूढानामन्योन्यमभिधावताम्।
शिरांसि विशिखैर्दीप्तैरच्छिन्दं शतसङ्घशः ॥ 3-175-24(22669)
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः।
खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥ 3-175-25(22670)
ततोऽहं शरवर्षेण महता कुरुनन्दन।
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥ 3-175-26(22671)
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम्।
दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥ 3-175-27(22672)
अन्तर्भूमौ निपतति पुनरूर्ध्वं प्रतिष्ठते।
पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति ॥ 3-175-28(22673)
अमरावतिसंकाशं तत्पुरं कामगं महत्।
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णां परंतप ॥ 3-175-29(22674)
ततोऽहं शरजालेन दिव्यास्त्रनुदितेन च।
व्यगृह्णां सह दैतेयैस्तत्पुरं पुरुषर्षभ ॥ 3-175-30(22675)
विक्षत चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः।
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥ 3-175-31(22676)
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः।
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥ 3-175-32(22677)
ततो मातलिरारुह्यपुरस्तान्निपतन्निव।
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥ 3-175-33(22678)
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम्।
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत।
तान्यहं निशितैर्बाणैर्व्यधमं गार्ध्रराजितैः ॥ 3-175-34(22679)
ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः।
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत् ॥ 3-175-35(22680)
ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम् ॥ 3-175-36(22681)
ततस्तानि सहस्राणइ रथिनां चित्रयोधिनाम्।
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्छनकैरिव ॥ 3-175-37(22682)
रथमार्गान्विचित्रांस्ते विचरन्तो महाबलाः।
प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः ॥ 3-175-38(22683)
विचित्रमुकुटापीडा विचित्रकवचध्वजाः।
विचित्राभरणाश्चैव मम प्रीतिकराऽभवन् ॥ 3-175-39(22684)
अहं तुशरवर्षैस्तानस्त्रप्रचुदितै रणे।
नाशक्रुवं पीडयितुं ते तु मां प्रत्यपीडयन् ॥ 3-175-40(22685)
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि।
व्यथितोस्मि महायुद्धे भयं चागान्महन्मम ॥ 3-175-41(22686)
`ततोहं परमायत्तो मातलिं परिपृष्टवान् ॥ 3-175-42(22687)
किमेते मम बाणौघैर्दिव्यास्त्रप्रतिमन्त्रितैः।
न वध्यन्ते महाघोरैस्तत्त्वमाख्याहि पृच्छतः ॥ 3-175-43(22688)
स मामुवाच पर्याप्तस्त्वमेषां भरतर्षभ।
तानुद्दिश्याथ मर्माणि प्रतिघातं तदाचर ॥ 3-175-44(22689)
एतच्छ्रुत्वा तु राजेनद्रसंप्रहृष्टस्तमूचिवान्।
निवर्तय रथं शीघ्रं पश्य चैतान्निपातितान् ॥ 3-175-45(22690)
एवमुक्तो रथं तत्र मातलिः पर्यवर्तयत् ॥ 3-175-46(22691)
ततो मत्वा रणे भग्नं दानवाः प्रतिहर्षिताः।
विचुक्रुशुर्महाराज स्वरेण महता मुहुः ॥ 3-175-47(22692)
अभग्नः कैश्चिदप्येष पाण्डवो रणमूर्धनि।
अस्माभिः समरे भग्न इत्येवं संघशस्तदा ॥ 3-175-48(22693)
ततोहं देवदेवाय रुद्रायाव्यक्तमूर्तये।
प्रयतः प्रणतो भूत्वा नमस्कृत्य महात्मने'।
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥ 3-175-49(22694)
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम्।
`महत्पाशुपतं दिव्यं सर्वलोकनमस्कृतम्' ॥ 3-175-50(22695)
`ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम्।
त्रिमुखं षङ्भुजं दीप्तमर्कज्वलनमूर्धजम्।
लेलिहानैर्महानागैः कृतचिह्नममित्रहन् ॥ 3-175-51(22696)
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम्।
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ॥ 3-175-52(22697)
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे।
मुक्तवान्दानवेन्द्राणां पराभावाय भारत ॥ 3-175-53(22698)
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः।
मृगाणामथ सिंहानां व्याग्राणां च विशांपते ॥ 3-175-54(22699)
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम्।
शरभाणां गजानां च वानराणां च सङ्घशः।
ऋषभाणां वराहाणां मार्जाराणां तथैव च ॥ 3-175-55(22700)
सालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः।
गृध्राणां गरुडानां च चमराणां तथैव च ॥ 3-175-56(22701)
देवानां च ऋषीणां रच गन्धर्वाणां च सर्वशः।
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥ 3-175-57(22702)
गुह्यकानां च संग्रामे नैर्ऋतानां तथैव च।
झषाणां गजवक्राणामुलूकानां तथैव च ॥ 3-175-58(22703)
मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम्।
तथैव यातुधानानां गदामुद्गरधारिणाम् ॥ 3-175-59(22704)
एतैस्चान्यैश्च बहुभिर्नानारूपधरैस्तदा।
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥ 3-175-60(22705)
त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः।
अनेकरूपसंयुक्तैर्मांसमेदोवसास्तिभिः ॥ 3-175-61(22706)
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः।
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः ॥ 3-175-62(22707)
अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः।
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ॥ 3-175-63(22708)
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान्।
दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ॥ 3-175-64(22709)
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान्।
निशाम्य परमं हर्षमगमद्देवसारथिः ॥ 3-175-65(22710)
तदसह्यं कृतं कर्म देवैरपि दुरासदम्।
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥ 3-175-66(22711)
उचाच वचनं चेदंप्रीयमाणः कृताञ्जलिः।
`हतांस्तान्दानवान्दृष्ट्वा मया सङ्ख्ये सहस्रशः ॥ 3-175-67(22712)
सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया।
न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः।
`ध्रुवं धनञ्जय प्रीतस्त्वयि शक्रः पुरार्दन' ॥ 3-175-68(22713)
सुरासुरैरवध्यं हि पुरमेतत्खगं महत्।
त्वया विमथितं वीर स्ववीर्यतपसो बलात् ॥ 3-175-69(22714)
अर्जुन उवाच। 3-175-69x(2323)
विद्वस्ते खपुरे तस्मिन्दानवेषु हतेषु च।
विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ॥ 3-175-70(22715)
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः।
पेतुः पुत्रान्पितृन्भ्रातॄञ्शोचमाना महीतले ॥ 3-175-71(22716)
रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः।
उरांसि पाणिभिर्घ्नन्त्यो विस्रस्तस्रग्विभूषणाः ॥ 3-175-72(22717)
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम्।
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ॥ 3-175-73(22718)
गन्धर्वनगराकारं हृतनागमिव ह्रदम्।
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ॥ 3-175-74(22719)
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत्।
देवराजस्य भवनं कृतकर्माणमाहवात् ॥ 3-175-75(22720)
हिरण्यपुरमुत्सृज्य निहत्य च महासुरान्।
निवातकवचांश्चैव ततोऽहंशक्रमागमम् ॥ 3-175-76(22721)
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत्।
सर्वं विश्रावयामास यथाभूतं महाद्युते ॥ 3-175-77(22722)
हिरण्यपुरघातं च मायानां च निवारणम्।
निवातकवचानां च वधं सङ्ख्ये महौजसाम्।
`कालकेयवधं चैव अद्भुतं रोमहर्षणम्' ॥ 3-175-78(22723)
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः।
मरुद्भिः सहितः श्रीमान्साधुसाध्वित्यथाब्रवीत्।
`परिष्वज्य च मां प्रेम्णा मूर्ध्नि चाघ्राय सस्मितम्' ॥ 3-175-79(22724)
ततो मां देवराजो वै समाश्वास्य पुनः पुनः।
अब्रवीद्विबुधैः सार्धमिदं समधुरं वचः ॥ 3-175-80(22725)
अतिदेवासुरं कर्म कृतमेव त्वया रणे।
गुर्वर्थश्च कृतः पार्थ महाशत्रून्घ्नता मम ॥ 3-175-81(22726)
एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय।
असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥ 3-175-82(22727)
अविषह्यो रणे हि त्वं देवदानवराक्षसैः।
सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥ 3-175-83(22728)
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम्।
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥ 3-175-84(22729)
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-175-12 खपुरं खचरत्वात् ॥ 3-175-18 न वध्या इति न अपितु वध्या एव ॥ 3-175-33 आरुह्य गगनमुत्पत्य। अवातरत् अवतीर्णः ॥ 3-175-34 पर्यवर्तन्त परिवार्य अवर्तन्त। गार्द्रराजितैः गृध्रपत्रशोभितैः ॥ 3-175-35 युद्धे निमित्ते सति संन्यवर्तन्त। इमे वयमिति शेषः। रयुद्धेन जेतुमिति शेषः ॥ 3-175-61 मांसमेदोवसास्थिभिः संयुक्तैरिति शेषः ॥ 3-175-63 निबर्हणैर्नाशकरैः ॥ 3-175-65 निशाम्य दृष्ट्वा ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|